|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.23. अध्यायः 023
Mahabharata - Vana Parva - Chapter Topics
कृष्णादीनां पाण्डवान्दृष्ट्वा वनात्स्वनगरगमनानन्तरं पाण्डवैः पौराणामाश्वासनपूर्वकं नगरप्रति निवर्तनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-23-0x(1841)(16556)
तस्मिन्दशार्हाधिपतौ प्रयाते
युधिष्ठिरो भीमसेनार्जुनौ च।
यमौ च कृष्ण च पुरोहितश्च
रथान्महार्हान्परमाश्वयुक्तान् ॥ 3-23-1(16557)
अस्थाय वीराः सहिता वनाय
प्रतस्थिरे भूतपतिप्रकाशाः।
हिरण्यनिष्कान्वसनानि गाश्च
गदाय शिक्षाक्षरमन्त्रविद्भ्यः ॥ 3-23-2(16558)
प्रेष्याः पुरो विंशतिरात्तशस्त्रा
धनूंषि शस्त्राणि शरांश्च दीप्तान्।
मौर्वीश्च यन्त्राणि च सायकांश्च
सर्वे समादाय जघन्यमीयुः ॥ 3-23-3(16559)
तत्सतु वासांसि च राजपुत्र्या
धात्र्यश्च दास्यश्च विभूषणं च।
तदिन्द्रसेनस्त्वरितः प्रगृह्य
जघन्यमेवोपययौ रथेन ॥ 3-23-4(16560)
ततः कुरुश्रेष्ठमुपेत्य पौराः
प्रदक्षिणं चक्रुरदीनसत्वाः।
तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना
मुख्याश्च सर्वे कुरुजाङ्गलानाम् ॥ 3-23-5(16561)
स चापि तानभ्यवदत्प्रसन्नः
सहैव तैर्भ्रातृभिर्धर्मराजः।
तस्थौ च तत्राधिपतिर्महात्मा
दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ॥ 3-23-6(16562)
पितेव पुत्रेषु स तेषु भावं
चक्रे कुरूणामृषभो महात्मा।
ते चापि तस्मिन्भरतप्रबर्हे
तथा बभूवुः पितरीव पुत्राः ॥ 3-23-7(16563)
ततस्तमासाद्य महाजनौघाः
कुरुप्रवीरं परिवार्य तस्थुः।
हानाथ हाधर्म इति ब्रुवाणा
हीताश्च सर्वेऽऽश्रुमुखा बभूवुः ॥ 3-23-8(16564)
वरः कुरूणामधिपः प्रजानां
पितेव पुत्रानपहाय चास्मान्।
पौरानिमाञ्जानपदांश्च सर्वान्
हित्वा प्रयातः क्वनु धर्मराजः ॥ 3-23-9(16565)
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं
धिक्सौबलं पापमतिं च कर्णम्।
अनर्थमिच्छन्ति नरेन्द्र पापा
ये धर्मनित्यस्य सतस्तवोग्राः ॥ 3-23-10(16566)
स्वयं निवेश्याप्रतिमं महात्मा
पुरं महादेवपुरप्रकाशम्।
शतक्रतुप्रस्थममोघकर्मा
हित्वा प्रयातः क्वनु धर्मराजः ॥ 3-23-11(16567)
चकार यामप्रतिमां महात्मा
सभां मयो देवसभाप्रकाशाम्।
तां देवगुप्तामिव देवमायां
हित्वाप्रयातः क्वनु धर्मराजः ॥ 3-23-12(16568)
तान्धर्मकामार्थविदुत्तमौजा
बीभत्सुरुच्चैः सहितानुवाच।
आदास्यते वासमिमं निरुष्य
रवनेषु राजा द्विषतां यशांसि ॥ 3-23-13(16569)
द्विजातिमुख्याः सहिताः पृथक्व
भवद्भिरासाद्य तपस्विनश्च।
प्रसाद्य धर्मार्थविदश्च वाच्या
यथार्थसिद्धिः परमा भवेन्नः ॥ 3-23-14(16570)
इत्येवमुक्ते वचनेऽऽर्जुनेन
ते ब्राह्मणाः सर्ववर्णाश्च राजन्।
मुदाऽभ्यनन्दन्सहिताश्च चक्रुः
प्रदक्षिणं धर्मभृतांवरिष्ठम् ॥ 3-23-15(16571)
आमन्त्र्य पार्थं च वृकोदरं च
धनंजयं याज्ञसेनीं यमौ च।
प्रतस्थिरे राष्ट्रमरपेतहार्षा
युधिष्ठिरेणानुमता यथास्वम् ॥ 3-23-16(16572)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-23-1 भूतपतिः शिवः। निष्कः अष्टोत्तरशतं सुवर्णानि वक्षोऽलंकारो वा। शिक्षेतिव्याकरणाद्यङ्गानामुपलक्षणम्। अक्षराणि वेदः। नित्यत्वात्क्षरणशून्यः। मन्त्रः प्रणवः ॥ 3-23-3 पुर प्रागेव। जघन्यं पाश्चात्यं द्वारकादेशम् ॥ 3-23-4 राजपुत्र्या सुभद्रया सहा ॥ 3-23-7 तदा बभूवुरिति झ. पाठः ॥ 3-23-8 हीताः कुराज्ये तिष्ठाम इति लज्जिताः ॥ 3-23-10 अनर्थं द्यूतजम् ॥ 3-23-13 बीभत्सुरर्जुनः आदास्यते आच्छिद्य ग्रहीष्यति। यशांसि यशस्कराणि दिव्यसभादीनि ॥ 3-23-14 भवद्भिः पौरैः वाच्याः प्रार्थ्याः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|